Sukta 6.38
अपादित उदु नश्चित्रतमो महीं भर्षद्द्युमतीमिन्द्रहूतिम् । पन्यसीं धीतिं दैव्यस्य यामञ्जनस्य रातिं वनते सुदानुः ॥
अपा॑दि॒त उदु॑ नश्चि॒त्रत॑मो म॒हीं भ॑र्षद्द्यु॒मती॒मिन्द्र॑हूतिम् । पन्य॑सीं धी॒तिं दैव्य॑स्य॒ याम॒ञ्जन॑स्य रा॒तिं व॑नते सु॒दानु॑: ॥
apā́d itá úd u naś citrátamo mahī́m bharṣad dyumatī́m índrahūtim | pányasīṃ dhī́tiṃ daívyasya yā́man jánasya rātíṃ vanate sudā́nuḥ ||
From here, rising upward, may the most wonderful One bear for us the vast, luminous call to Indra—bringing a delightful vision-thought; in the divine movement he wins for the people the gift. He of good giving pours out the bounty.
अपा॑त् । इ॒तः । उत् । ऊँ॒ इति॑ । नः॒ । चि॒त्रऽत॑मः । म॒हीम् । भ॒र्ष॒त् । द्यु॒ऽमती॑म् । इन्द्र॑ऽहूतिम् । पन्य॑सीम् । धी॒तिम् । दैव्य॑स्य । याम॑न् । जन॑स्य । रा॒तिम् । व॒न॒ते॒ । सु॒ऽदानुः॑ ॥अपात् । इतः । उत् । ऊँ इति । नः । चित्रतमः । महीम् । भर्षत् । द्युमतीम् । इन्द्रहूतिम् । पन्यसीम् । धीतिम् । दैव्यस्य । यामन् । जनस्य । रातिम् । वनते । सुदानुः ॥apāt | itaḥ | ut | oṃ iti | naḥ | citra-tamaḥ | mahīm | bharṣat | dyu-matīm | indra-hūtim | panyasīm | dhītim | daivyasya | yāman | janasya | rātim | vanate | su-dānuḥ