Sukta 6.37
वरिष्ठो अस्य दक्षिणामियर्तीन्द्रो मघोनां तुविकूर्मितमः । यया वज्रिवः परियास्यंहो मघा च धृष्णो दयसे वि सूरीन् ॥
वरि॑ष्ठो अस्य॒ दक्षि॑णामिय॒र्तीन्द्रो॑ म॒घोनां॑ तुविकू॒र्मित॑मः । यया॑ वज्रिवः परि॒यास्यंहो॑ म॒घा च॑ धृष्णो॒ दय॑से॒ वि सू॒रीन् ॥
varíṣṭho asya dákṣiṇām iyartī́ndro maghónāṃ tuvikū́rmitamaḥ | yayā́ vajrivaḥ pariyā́sy áṃho maghā́ ca dhṛ́ṣṇo dáyase ví sūrī́n ||
Indra, most abundant in force, sets in motion for the giver the right-handed power of this offering—he, most wide-waved among the bounteous. By that might, O wielder of the thunderbolt, you encompass and pass beyond the constriction; and, O daring one, you distribute the plenitudes, spreading them out among the illumined leaders.
वरि॑ष्ठः । अ॒स्य॒ । दक्षि॑णाम् । इ॒य॒र्ति॒ । इन्द्रः॑ । म॒घोना॑म् । तु॒वि॒कू॒र्मिऽत॑मः । यया॑ । व॒ज्रि॒ऽवः॒ । प॒रि॒ऽयासि॑ । अंहः॑ । म॒घा । च॒ । धृ॒ष्णो॒ इति॑ । दय॑से । वि । सू॒रीन् ॥वरिष्ठः । अस्य । दक्षिणाम् । इयर्ति । इन्द्रः । मघोनाम् । तुविकूर्मितमः । यया । वज्रिवः । परियासि । अंहः । मघा । च । धृष्णो इति । दयसे । वि । सूरीन् ॥variṣṭhaḥ | asya | dakṣiṇām | iyarti | indraḥ | maghonām | tuvikūrmi-tamaḥ | yayā | vajri-vaḥ | pari-yāsi | aṃhaḥ | maghā | ca | dhṛṣṇo iti | dayase | vi | sūrīn