Sukta 6.37
आसस्राणासः शवसानमच्छेन्द्रं सुचक्रे रथ्यासो अश्वाः । अभि श्रव ऋज्यन्तो वहेयुर्नू चिन्नु वायोरमृतं वि दस्येत् ॥
आ॒स॒स्रा॒णास॑: शवसा॒नमच्छेन्द्रं॑ सुच॒क्रे र॒थ्या॑सो॒ अश्वा॑: । अ॒भि श्रव॒ ऋज्य॑न्तो वहेयु॒र्नू चि॒न्नु वा॒योर॒मृतं॒ वि द॑स्येत् ॥
āsasrāṇā́saḥ śavasā́nam ácchendraṃ sucakré rathyā́so áśvāḥ | abhí śráva ṛ́jyanto vaheyuḥ nū́ cit nú vāyór amṛ́taṃ ví dasyet ||
Rushing forth, the chariot-horses with fair wheels bear Indra the impetuous towards us; straight-going, they carry us toward the hearing of the Word. Even now, the immortal delight of Vāyu might be won and distributed.
आ॒स॒स्रा॒णासः॑ । श॒व॒सा॒नम् । अच्छ॑ । इन्द्र॑म् । सु॒ऽच॒क्रे । र॒थ्या॑सः । अश्वाः॑ । अ॒भि । श्रवः॑ । ऋज्य॑न्तः । व॒हे॒युः॒ । नु । चि॒त् । नु । वा॒योः । अ॒मृत॑म् । वि । द॒स्ये॒त् ॥आसस्राणासः । शवसानम् । अच्छ । इन्द्रम् । सुचक्रे । रथ्यासः । अश्वाः । अभि । श्रवः । ऋज्यन्तः । वहेयुः । नु । चित् । नु । वायोः । अमृतम् । वि । दस्येत् ॥āsasrāṇāsaḥ | śavasānam | accha | indram | su-cakre | rathyāsaḥ | aśvāḥ | abhi | śravaḥ | ṛjyantaḥ | vaheyuḥ | nu | cit | nu | vāyoḥ | amṛtam | vi | dasyet