Sukta 6.37
इन्द्रो वाजस्य स्थविरस्य दातेन्द्रो गीर्भिर्वर्धतां वृद्धमहाः । इन्द्रो वृत्रं हनिष्ठो अस्तु सत्वा ता सूरिः पृणति तूतुजानः ॥
इन्द्रो॒ वाज॑स्य॒ स्थवि॑रस्य दा॒तेन्द्रो॑ गी॒र्भिर्व॑र्धतां वृ॒द्धम॑हाः । इन्द्रो॑ वृ॒त्रं हनि॑ष्ठो अस्तु॒ सत्वा ता सू॒रिः पृ॑णति॒ तूतु॑जानः ॥
índro vā́jasya sthávirasya dāténdro gīrbhír vardhatāṃ vṛ́ddhamahāḥ | índro vṛtráṃ hániṣṭho astu sátvā́ ā́ tā́ sūríḥ pṛṇati tū́tujānaḥ ||
Indra is the giver of the firm and enduring plenitude of force; Indra, great in his increase, let him grow by our inspired words. Let Indra be the strongest slayer of the Coverer, the true puissance; then the illumined leader, ardently impelling, fills us with that abundance.
इन्द्रः॑ । वाज॑स्य । स्थवि॑रस्य । दा॒ता । इन्द्रः॑ । गीः॒ऽभिः । व॒र्ध॒ता॒म् । वृ॒द्धऽम॑हाः । इन्द्रः॑ । वृ॒त्रम् । हनि॑ष्ठः । अ॒स्तु॒ । सत्वा॑ । आ । ता । सू॒रिः । पृ॒ण॒ति॒ । तूतु॑जानः ॥इन्द्रः । वाजस्य । स्थविरस्य । दाता । इन्द्रः । गीःभिः । वर्धताम् । वृद्धमहाः । इन्द्रः । वृत्रम् । हनिष्ठः । अस्तु । सत्वा । आ । ता । सूरिः । पृणति । तूतुजानः ॥indraḥ | vājasya | sthavirasya | dātā | indraḥ | gīḥ-bhiḥ | vardhatām | vṛddha-mahāḥ | indraḥ | vṛtram | haniṣṭhaḥ | astu | satvā | ā | tā | sūriḥ | pṛṇati | tūtujānaḥ