Sukta 6.37
प्रो द्रोणे हरयः कर्माग्मन्पुनानास ऋज्यन्तो अभूवन् । इन्द्रो नो अस्य पूर्व्यः पपीयाद्द्युक्षो मदस्य सोम्यस्य राजा ॥
प्रो द्रोणे॒ हर॑य॒: कर्मा॑ग्मन्पुना॒नास॒ ऋज्य॑न्तो अभूवन् । इन्द्रो॑ नो अ॒स्य पू॒र्व्यः प॑पीयाद्द्यु॒क्षो मद॑स्य सो॒म्यस्य॒ राजा॑ ॥
pró droṇé hárayaḥ kármāgman punānā́sa ṛ́jyanto abhūvan | índro no asyá pū́rvyaḥ papīyād dyukṣó madasyá sómyasya rājā ||
Forward to the trough the tawny powers have gone to their work; purifying themselves, they became straight and keen. May Indra, the ancient one, drink of this for us—he the shining king of the Soma-ecstasy.
प्रो इति॑ । द्रोणे॑ । हर॑यः । कर्म॑ । अ॒ग्म॒न् । पु॒ना॒नासः॑ । ऋज्य॑न्तः । अ॒भू॒व॒न् । इन्द्रः॑ । नः॒ । अ॒स्य । पू॒र्व्यः । पा॒पी॒या॒त् । द्यु॒क्षः । मद॑स्य । सो॒म्यस्य । राजा॑ ॥प्रो इति । द्रोणे । हरयः । कर्म । अग्मन् । पुनानासः । ऋज्यन्तः । अभूवन् । इन्द्रः । नः । अस्य । पूर्व्यः । पापीयात् । द्युक्षः । मदस्य । सोम्यस्य । राजा ॥pro iti | droṇe | harayaḥ | karma | agman | punānāsaḥ | ṛjyantaḥ | abhūvan | indraḥ | naḥ | asya | pūrvyaḥ | pāpīyāt | dyukṣaḥ | madasya | somyasya | rājā