Sukta 6.36
स रायस्खामुप सृजा गृणानः पुरुश्चन्द्रस्य त्वमिन्द्र वस्वः । पतिर्बभूथासमो जनानामेको विश्वस्य भुवनस्य राजा ॥
स रा॒यस्खामुप॑ सृजा गृणा॒नः पु॑रुश्च॒न्द्रस्य॒ त्वमि॑न्द्र॒ वस्व॑: । पति॑र्बभू॒थास॑मो॒ जना॑ना॒मेको॒ विश्व॑स्य॒ भुव॑नस्य॒ राजा॑ ॥
sa rā́yas khā́m úpa sṛjā gṛṇānáḥ puruścandrásya tvám indra vásvaḥ | pátir babhūthā́samo jánānām éko víśvasya bhúvanasya rājā ||
O Indra, as we affirm thee, release upon us the heaven of riches, for thou art lord of many splendours. Thou hast become the unequalled master of men, the one king of all the world of becoming.
सः । रा॒यः । खाम् । उप॑ । सृ॒ज॒ । गृ॒णा॒नः । पु॒रु॒ऽच॒न्द्रस्य॑ । त्वम् । इ॒न्द्र॒ । वस्वः॑ । पतिः॑ । ब॒भू॒थ॒ । अस॑मः । जना॑नाम् । एकः॑ । विश्व॑स्य । भुव॑नस्य । राजा॑ ॥सः । रायः । खाम् । उप । सृज । गृणानः । पुरुचन्द्रस्य । त्वम् । इन्द्र । वस्वः । पतिः । बभूथ । असमः । जनानाम् । एकः । विश्वस्य । भुवनस्य । राजा ॥saḥ | rāyaḥ | khām | upa | sṛja | gṛṇānaḥ | puru-candrasya | tvam | indra | vasvaḥ | patiḥ | babhūtha | asamaḥ | janānām | ekaḥ | viśvasya | bhuvanasya | rājā