Sukta 6.36
तं सध्रीचीरूतयो वृष्ण्यानि पौंस्यानि नियुतः सश्चुरिन्द्रम् । समुद्रं न सिन्धव उक्थशुष्मा उरुव्यचसं गिर आ विशन्ति ॥
तं स॒ध्रीची॑रू॒तयो॒ वृष्ण्या॑नि॒ पौंस्या॑नि नि॒युत॑: सश्चु॒रिन्द्र॑म् । स॒मु॒द्रं न सिन्ध॑व उ॒क्थशु॑ष्मा उरु॒व्यच॑सं॒ गिर॒ आ वि॑शन्ति ॥
táṃ sadhṛ́cīr ūtáyo vṛ́ṣṇyāni páuṃsyāni niyútaḥ saścur índram | samudráṃ ná síndhava uktháśuṣmā uruvyácasaṃ gíra ā́ viśanti ||
To that Indra the concordant helps and the virile strengths gather and cleave. As rivers enter the sea, so the chants, strong with hymn-force, enter the wide-pervading One.
तम् । स॒ध्रीचीः॑ । ऊ॒तयः॑ । वृष्ण्या॑नि । पौंस्या॑नि । नि॒ऽयुतः॑ । सश्चुः॑ । इन्द्र॑म् । स॒मु॒द्रम् । न । सिन्ध॑वः । उ॒क्थऽशु॑ष्माः । उ॒रु॒ऽव्यच॑सम् । गिरः॑ । आ । वि॒श॒न्ति॒ ॥तम् । सध्रीचीः । ऊतयः । वृष्ण्यानि । पौंस्यानि । नियुतः । सश्चुः । इन्द्रम् । समुद्रम् । न । सिन्धवः । उक्थशुष्माः । उरुव्यचसम् । गिरः । आ । विशन्ति ॥tam | sadhrīcīḥ | ūtayaḥ | vṛṣṇyāni | paiṃsyāni | ni-yutaḥ | saścuḥ | indram | samudram | na | sindhavaḥ | uktha-śuṣmāḥ | uru-vyacasam | giraḥ | ā | viśanti