Sukta 6.36
स तु श्रुधि श्रुत्या यो दुवोयुर्द्यौर्न भूमाभि रायो अर्यः । असो यथा नः शवसा चकानो युगेयुगे वयसा चेकितानः ॥
स तु श्रु॑धि॒ श्रुत्या॒ यो दु॑वो॒युर्द्यौर्न भूमा॒भि रायो॑ अ॒र्यः । असो॒ यथा॑ न॒: शव॑सा चका॒नो यु॒गेयु॑गे॒ वय॑सा॒ चेकि॑तानः ॥
sa tú śrúdhí śrutyā́ yó duvoyúr dyáur ná bhū́mābhí rā́yo aryáḥ | asó yáthā naḥ śávasā cakānó yugé-yuge váyasā cékītānaḥ ||
Hear then with thy hearing, thou who desirest our offering; be to us like heaven and earth in thy encompassing riches. So mayest thou, rejoicing in strength, be for us from age to age, ever growing in thy power and conscious mastery.
सः । तु । श्रु॒धि॒ । श्रुत्या॑ । यः । दु॒वः॒ऽयुः । द्यौः । न । भूम॑ । अ॒भि । रायः॑ । अ॒र्यः । असः॑ । यथा॑ । नः॒ । शव॑सा । च॒का॒नः । यु॒गेऽयु॑गे । वय॑सा । चेकि॑तानः ॥सः । तु । श्रुधि । श्रुत्या । यः । दुवःयुः । द्यौः । न । भूम । अभि । रायः । अर्यः । असः । यथा । नः । शवसा । चकानः । युगेयुगे । वयसा । चेकितानः ॥saḥ | tu | śrudhi | śrutyā | yaḥ | duvaḥ-yuḥ | dyauḥ | na | bhūma | abhi | rāyaḥ | aryaḥ | asaḥ | yathā | naḥ | śavasā | cakānaḥ | yuge--yuge | vayasā | cekitānaḥ