Sukta 6.33
स त्वं न इन्द्राकवाभिरूती सखा विश्वायुरविता वृधे भूः । स्वर्षाता यद्ध्वयामसि त्वा युध्यन्तो नेमधिता पृत्सु शूर ॥
स त्वं न॑ इ॒न्द्राक॑वाभिरू॒ती सखा॑ वि॒श्वायु॑रवि॒ता वृ॒धे भू॑: । स्व॑र्षाता॒ यद्ध्वया॑मसि त्वा॒ युध्य॑न्तो ने॒मधि॑ता पृ॒त्सु शू॑र ॥
sa tvaṃ na indra akavābhir ūtī sakhā viśvāyur avitā vṛdhe bhūḥ | svaḥ-sātā yad hvayāmasi tvā yudhyanto nema-dhitā pṛtsu śūra ||
Be thou indeed for us, O Indra, with thy unweakened succours, a friend of the entire life, a protector for our increase. When we call thee as the winner of the luminous heaven, then in the battles, O hero, we fight as those who set their foundation firmly and do not yield the ground.
सः । त्वम् । नः॒ । इ॒न्द्र॒ । अक॑वाभिः । ऊ॒ती । सखा॑ । वि॒श्वऽआ॑युः । अ॒वि॒ता । वृ॒धे । भूः॒ । स्वः॑ऽसाता । यत् । ह्वया॑मसि । त्वा॒ । युध्य॑न्तः । ने॒मऽधि॑ता । पृ॒त्ऽसु । शू॒र॒ ॥सः । त्वम् । नः । इन्द्र । अकवाभिः । ऊती । सखा । विश्वआयुः । अविता । वृधे । भूः । स्वःसाता । यत् । ह्वयामसि । त्वा । युध्यन्तः । नेमधिता । पृत्सु । शूर ॥saḥ | tvam | naḥ | indra | akavābhiḥ | ūtī | sakhā | viśva-āyuḥ | avitā | vṛdhe | bhūḥ | svaḥ-sātā | yat | hvayāmasi | tvā | yudhyantaḥ | nema-dhitā | pṛt-su | śūra