Sukta 6.33
नूनं न इन्द्रापराय च स्या भवा मृळीक उत नो अभिष्टौ । इत्था गृणन्तो महिनस्य शर्मन्दिवि ष्याम पार्ये गोषतमाः ॥
नू॒नं न॑ इन्द्राप॒राय॑ च स्या॒ भवा॑ मृळी॒क उ॒त नो॑ अ॒भिष्टौ॑ । इ॒त्था गृ॒णन्तो॑ म॒हिन॑स्य॒ शर्म॑न्दि॒वि ष्या॑म॒ पार्ये॑ गो॒षत॑माः ॥
nūnaṃ na indrāparāya ca syā bhavā mṛḷīka uta no abhiṣṭau | itthā gṛṇanto mahinasya śarman divi ṣyāma pārye gosa-tamāḥ ||
Now indeed, O Indra, be for us also in the beyond (and not only in the near); become for us the gracious one, and in our desired goal. Thus praising, may we dwell in the shelter of thy vastness, in the farther heaven, most rich in the rays (of illumination).
नू॒नम् । नः॒ । इ॒न्द्र॒ । अ॒प॒राय॑ । च॒ । स्याः॒ । भव॑ । मृ॒ळी॒कः । उ॒त । नः॒ । अ॒भिष्टौ॑ । इ॒त्था । गृ॒णन्तः॑ । म॒हिन॑स्य । शर्म॑न् । दि॒वि । स्या॒म॒ । पार्ये॑ । गो॒सऽत॑माः ॥नूनम् । नः । इन्द्र । अपराय । च । स्याः । भव । मृळीकः । उत । नः । अभिष्टौ । इत्था । गृणन्तः । महिनस्य । शर्मन् । दिवि । स्याम । पार्ये । गोसतमाः ॥nūnam | naḥ | indra | aparāya | ca | syāḥ | bhava | mṛḷīkaḥ | uta | naḥ | abhiṣṭau | itthā | gṛṇantaḥ | mahinasya | śarman | divi | syāma | pārye | gosa-tamāḥ