Sukta 6.33
त्वां हीन्द्रावसे विवाचो हवन्ते चर्षणयः शूरसातौ । त्वं विप्रेभिर्वि पणीँरशायस्त्वोत इत्सनिता वाजमर्वा ॥
त्वां ही॒३॒॑न्द्राव॑से॒ विवा॑चो॒ हव॑न्ते चर्ष॒णय॒: शूर॑सातौ । त्वं विप्रे॑भि॒र्वि प॒णीँर॑शाय॒स्त्वोत॒ इत्सनि॑ता॒ वाज॒मर्वा॑ ॥
tvāṃ hīndrā́vase vivā́co havante carṣaṇáyaḥ śūra-sātau | tvaṃ viprebhir vi paṇī́ṃr aśāyas tvóta it sanitā́ vā́jam arvā́ ||
For thy help, O Indra, the many-voiced peoples call in the winning of the hero. Thou, with the seers, didst lay low and disperse the Paṇis; by thee supported, the swift one wins the vāja—plenitude of force.
त्वाम् । हि । इ॒न्द्र॒ । अव॑से । विवा॑चः । हव॑न्ते । च॒र्ष॒णयः॑ । शूर॑ऽसातौ । त्वम् । विप्रे॑भिः । वि । प॒णीन् । अ॒शा॒यः॒ । त्वाऽऊ॑तः । इत् । सनि॑ता । वाज॑म् । अर्वा॑ ॥त्वाम् । हि । इन्द्र । अवसे । विवाचः । हवन्ते । चर्षणयः । शूरसातौ । त्वम् । विप्रेभिः । वि । पणीन् । अशायः । त्वाऊतः । इत् । सनिता । वाजम् । अर्वा ॥tvām | hi | indra | avase | vivācaḥ | havante | carṣaṇayaḥ | śūra-sātau | tvam | viprebhiḥ | vi | paṇīn | aśāyaḥ | tvāūtaḥ | it | sanitā | vājam | arvā