Sukta 6.32
स नीव्याभिर्जरितारमच्छा महो वाजेभिर्महद्भिश्च शुष्मैः । पुरुवीराभिर्वृषभ क्षितीनामा गिर्वणः सुविताय प्र याहि ॥
स नी॒व्या॑भिर्जरि॒तार॒मच्छा॑ म॒हो वाजे॑भिर्म॒हद्भि॑श्च॒ शुष्मै॑: । पु॒रु॒वीरा॑भिर्वृषभ क्षिती॒नामा गि॑र्वणः सुवि॒ताय॒ प्र या॑हि ॥
sa nīvyābhir jaritāram acchā mahaḥ vājebhir mahad-bhiś ca śuṣmaiḥ | puru-vīrābhir vṛṣabha kṣitīnām ā girvaṇaḥ suvitāya pra yāhi ||
Come thou to the singer with thy supporting powers, with great plenitudes of force and with mighty intensities. O Bull of the peoples, with thy many heroic energies, O lord of inspired speech, advance towards our good passage and right arriving.
सः । नी॒व्या॑भिः । ज॒रि॒तार॑म् । अच्छ॑ । म॒हः । वाजे॑भिः । म॒हत्ऽभिः॑ । च॒ । शुष्मैः॑ । पु॒रु॒ऽवीरा॑भिः । वृ॒ष॒भ॒ । क्षि॒ती॒नाम् । आ । गि॒र्व॒णः॒ । सु॒वि॒ताय॑ । प्र । या॒हि॒ ॥सः । नीव्याभिः । जरितारम् । अच्छ । महः । वाजेभिः । महत्भिः । च । शुष्मैः । पुरुवीराभिः । वृषभ । क्षितीनाम् । आ । गिर्वणः । सुविताय । प्र । याहि ॥saḥ | nīvyābhiḥ | jaritāram | accha | mahaḥ | vājebhiḥ | mahat-bhiḥ | ca | śuṣmaiḥ | puru-vīrābhiḥ | vṛṣabha | kṣitīnām | ā | girvaṇaḥ | suvitāya | pra | yāhi