Sukta 6.32
स सर्गेण शवसा तक्तो अत्यैरप इन्द्रो दक्षिणतस्तुराषाट् । इत्था सृजाना अनपावृदर्थं दिवेदिवे विविषुरप्रमृष्यम् ॥
स सर्गे॑ण॒ शव॑सा त॒क्तो अत्यै॑र॒प इन्द्रो॑ दक्षिण॒तस्तु॑रा॒षाट् । इ॒त्था सृ॑जा॒ना अन॑पावृ॒दर्थं॑ दि॒वेदि॑वे विविषुरप्रमृ॒ष्यम् ॥
sa sargeṇa śavasā takto atyaiḥ apaḥ indro dakṣiṇatas turāṣāṭ | itthā sṛjānā anapa-vṛd arthaṃ dive-dive viviṣur apra-mṛṣyam ||
Thus, driven by the surge and by force, Indra, the overcomer, with his racing steeds, won the waters from the right side. Creating in this way an aim that does not turn back, day by day they entered and desired the inviolable attainment.
सः । सर्गे॑ण । शव॑सा । त॒क्तः । अत्यैः॑ । अ॒पः । इन्द्रः॑ । द॒क्षि॒ण॒तः । तु॒रा॒षाट् । इ॒त्था । सृ॒जा॒नाः । अन॑पऽवृत् । अर्थ॑म् । दि॒वेऽदि॑वे । वि॒वि॒षुः॒ । अ॒प्र॒ऽमृ॒ष्यम् ॥सः । सर्गेण । शवसा । तक्तः । अत्यैः । अपः । इन्द्रः । दक्षिणतः । तुराषाट् । इत्था । सृजानाः । अनपवृत् । अर्थम् । दिवेदिवे । विविषुः । अप्रमृष्यम् ॥saḥ | sargeṇa | śavasā | taktaḥ | atyaiḥ | apaḥ | indraḥ | dakṣiṇataḥ | turāṣāṭ | itthā | sṛjānāḥ | anapa-vṛt | artham | dive--dive | viviṣuḥ | apra-mṛṣyam