Sukta 6.32
स मातरा सूर्येणा कवीनामवासयद्रुजदद्रिं गृणानः । स्वाधीभिॠक्वभिर्वावशान उदुस्रियाणामसृजन्निदानम् ॥
स मा॒तरा॒ सूर्ये॑णा कवी॒नामवा॑सयद्रु॒जदद्रिं॑ गृणा॒नः । स्वा॒धीभि॒ॠक्व॑भिर्वावशा॒न उदु॒स्रिया॑णामसृजन्नि॒दान॑म् ॥
sa mātarā sūryeṇa kavīnām avāsayad rujad adriṃ gṛṇānaḥ | svādhībhir ṛkva-bhir vāvaśāna ud usrīyāṇām asṛjan ni-dānam ||
He set the two Mothers in their place by the Sun—by the seers’ light—while praising, he shattered the rock. With self-mastering thoughts and with the chanting singers, exulting, he sent upward the radiant herds and released their hidden station.
सः । मा॒तरा॑ । सूर्ये॑ण । क॒वी॒नाम् । अवा॑सयत् । रु॒जत् । अद्रि॑म् । गृ॒णा॒नः । सु॒ऽआ॒धीभिः॑ । ऋक्व॑ऽभिः । वा॒व॒शा॒नः । उत् । उ॒स्रिया॑णाम् । अ॒सृ॒ज॒त् । नि॒ऽदान॑म् ॥सः । मातरा । सूर्येण । कवीनाम् । अवासयत् । रुजत् । अद्रिम् । गृणानः । सुआधीभिः । ऋक्वभिः । वावशानः । उत् । उस्रियाणाम् । असृजत् । निदानम् ॥saḥ | mātarā | sūryeṇa | kavīnām | avāsayat | rujat | adrim | gṛṇānaḥ | su-ādhībhiḥ | ṛkva-bhiḥ | vāvaśānaḥ | ut | usriyāṇām | asṛjat | ni-dānam