Sukta 6.32
अपूर्व्या पुरुतमान्यस्मै महे वीराय तवसे तुराय । विरप्शिने वज्रिणे शंतमानि वचांस्यासा स्थविराय तक्षम् ॥
अपू॑र्व्या पुरु॒तमा॑न्यस्मै म॒हे वी॒राय॑ त॒वसे॑ तु॒राय॑ । वि॒र॒प्शिने॑ व॒ज्रिणे॒ शंत॑मानि॒ वचां॑स्या॒सा स्थवि॑राय तक्षम् ॥
apūrvyā puru-tamāny asmai mahe vīrāya tavase turāya | virapśine vajriṇe śaṃ-tamāni vacāṃsy āsā sthavirāya takṣam ||
New and unprecedented words, most abundant, we fashion for him—the great Hero, the strong and impetuous, the wide-working wielder of the thunder-force. For the enduring one we carve speech that is most full of peace and right joy.
अपू॑र्व्या । पु॒रु॒ऽतमा॑नि । अ॒स्मै॒ । म॒हे । वी॒राय॑ । त॒वसे॑ । तु॒राय॑ । वि॒र॒प्शिने॑ । व॒ज्रिणे॑ । शम्ऽत॑मानि । वचां॑सि । आ॒सा । स्थवि॑राय । त॒क्ष॒म् ॥अपूर्व्या । पुरुतमानि । अस्मै । महे । वीराय । तवसे । तुराय । विरप्शिने । वज्रिणे । शम्तमानि । वचांसि । आसा । स्थविराय । तक्षम् ॥apūrvyā | puru-tamāni | asmai | mahe | vīrāya | tavase | turāya | virapśine | vajriṇe | śam-tamāni | vacāṃsi | āsā | sthavirāya | takṣam