Sukta 6.31
त्वं कुत्सेनाभि शुष्णमिन्द्राशुषं युध्य कुयवं गविष्टौ । दश प्रपित्वे अध सूर्यस्य मुषायश्चक्रमविवे रपांसि ॥
त्वं कुत्से॑ना॒भि शुष्ण॑मिन्द्रा॒शुषं॑ युध्य॒ कुय॑वं॒ गवि॑ष्टौ । दश॑ प्रपि॒त्वे अध॒ सूर्य॑स्य मुषा॒यश्च॒क्रमवि॑वे॒ रपां॑सि ॥
tváṁ kútsenā́bhi śúṣṇam indrāśúṣaṁ yúdhyá kúyavaṁ gáviṣṭau | dáśa prapítve ádha sū́ryasya muṣā́yaś cakrám avive rápaṁsi ||
You, with Kutsa, fought against Śuṣṇa, O Indra—against the withering one—against Kuyava in the quest for the Light (the cows). Then, at the tenfold (decisive) turning of the Sun, you recovered the wheel (of right motion) and made the deceits come to nothing.
त्वम् । कुत्से॑न । अ॒भि । शुष्ण॑म् । इ॒न्द्र॒ । अ॒शुष॑म् । यु॒ध्य॒ । कुय॑वम् । गवि॑ष्टौ । दश॑ । प्र॒ऽपि॒त्वे । अध॑ । सूर्य॑स्य । मु॒षा॒यः । च॒क्रम् । अवि॑वेः । रपां॑सि ॥त्वम् । कुत्सेन । अभि । शुष्णम् । इन्द्र । अशुषम् । युध्य । कुयवम् । गविष्टौ । दश । प्रपित्वे । अध । सूर्यस्य । मुषायः । चक्रम् । अविवेः । रपांसि ॥tvam | kutsena | abhi | śuṣṇam | indra | aśuṣam | yudhya | kuyavam | gaviṣṭau | daśa | pra-pitve | adha | sūryasya | muṣāyaḥ | cakram | aviveḥ | rapāṃsi