Sukta 6.31
त्वद्भियेन्द्र पार्थिवानि विश्वाच्युता चिच्च्यावयन्ते रजांसि । द्यावाक्षामा पर्वतासो वनानि विश्वं दृळ्हं भयते अज्मन्ना ते ॥
त्वद्भि॒येन्द्र॒ पार्थि॑वानि॒ विश्वाच्यु॑ता चिच्च्यावयन्ते॒ रजां॑सि । द्यावा॒क्षामा॒ पर्व॑तासो॒ वना॑नि॒ विश्वं॑ दृ॒ळ्हं भ॑यते॒ अज्म॒न्ना ते॑ ॥
tvád-bhiyéndra pārthivā́ni víśvācyutā́ cic cyāvayante rájāṁsi | dyāvā́kṣāmā párvatāso vánāni víśvaṁ dṛḷháṁ bhayate ájmann ā́ te ||
From fear of you, O Indra, all earthly things—even the immovable—are made to shift in their spaces. Heaven-and-Earth, the mountains, the forests—everything firm trembles as you advance toward it.
त्वत् । भि॒या । इ॒न्द्र॒ । पार्थि॑वानि । विश्वा॑ । अच्यु॑ता । चि॒त् । च्य॒व॒य॒न्ते॒ । रजां॑सि । द्यावा॒क्षामा॑ । पर्व॑तासः । वना॑नि । विश्व॑म् । दृ॒ळ्हम् । भ॒य॒ते॒ । अज्म॑न् । आ । ते॒ ॥त्वत् । भिया । इन्द्र । पार्थिवानि । विश्वा । अच्युता । चित् । च्यवयन्ते । रजांसि । द्यावाक्षामा । पर्वतासः । वनानि । विश्वम् । दृळ्हम् । भयते । अज्मन् । आ । ते ॥tvat | bhiyā | indra | pārthivāni | viśvā | acyutā | cit | cyavayante | rajāṃsi | dyāvākṣāmā | parvatāsaḥ | vanāni | viśvam | dṛḷham | bhayate | ajman | ā | te