Sukta 6.31
अभूरेको रयिपते रयीणामा हस्तयोरधिथा इन्द्र कृष्टीः । वि तोके अप्सु तनये च सूरेऽवोचन्त चर्षणयो विवाचः ॥
अभू॒रेको॑ रयिपते रयी॒णामा हस्त॑योरधिथा इन्द्र कृ॒ष्टीः । वि तो॒के अ॒प्सु तन॑ये च॒ सूरेऽवो॑चन्त चर्ष॒णयो॒ विवा॑चः ॥
abhū́r éko rayipate rayīṇā́m ā́ hástayor adhithā indra kṛṣṭī́ḥ | ví tókē ápsu tánaye ca sūrē’vócanta carṣaṇáyo vivā́caḥ ||
You have become the one lord of plenitudes; in your hands, O Indra, you hold the peoples. In home and in the waters, in the offspring and in the Sun, the human communities have spoken forth your manifold word.
अभूः॑ । एकः॑ । र॒यि॒ऽप॒ते॒ । र॒यी॒णाम् । आ । हस्त॑योः । अ॒धि॒थाः॒ । इ॒न्द्र॒ । कृ॒ष्टीः । वि । तो॒के । अ॒प्ऽसु । तन॑ये । च॒ । सूरे॑ । अवो॑चन्त । च॒र्ष॒णयः॑ । विवा॑चः ॥अभूः । एकः । रयिपते । रयीणाम् । आ । हस्तयोः । अधिथाः । इन्द्र । कृष्टीः । वि । तोके । अप्सु । तनये । च । सूरे । अवोचन्त । चर्षणयः । विवाचः ॥abhūḥ | ekaḥ | rayi-pate | rayīṇām | ā | hastayoḥ | adhithāḥ | indra | kṛṣṭīḥ | vi | toke | ap-su | tanaye | ca | sūre | avocanta | carṣaṇayaḥ | vivācaḥ