Sukta 6.30
सत्यमित्तन्न त्वावाँ अन्यो अस्तीन्द्र देवो न मर्त्यो ज्यायान् । अहन्नहिं परिशयानमर्णोऽवासृजो अपो अच्छा समुद्रम् ॥
स॒त्यमित्तन्न त्वावाँ॑ अ॒न्यो अ॒स्तीन्द्र॑ दे॒वो न मर्त्यो॒ ज्याया॑न् । अह॒न्नहिं॑ परि॒शया॑न॒मर्णोऽवा॑सृजो अ॒पो अच्छा॑ समु॒द्रम् ॥
satyám íttán ná tvāvā́ṁ anyó astī́ndra devó ná mártyo jyā́yān | áhann áhiṁ pari-śáyānam árṇo’vā́sṛjo ápo ácchā samudrám ||
This is the truth: none other than you exists—no god, no mortal—greater, O Indra. You slew the serpent lying coiled upon the flood, and you released the waters to go towards the ocean of vastness.
स॒त्यम् । इत् । तत् । न । त्वाऽवा॑न् । अ॒न्यः । अ॒स्ति॒ । इन्द्र॑ । दे॒वः । न । मर्त्यः॑ । ज्याया॑न् । अह॑न् । अहि॑म् । प॒रि॒ऽशया॑नम् । अर्णः॑ । अव॑ । अ॒सृ॒जः॒ । अ॒पः । अच्छ॑ । स॒मु॒द्रम् ॥सत्यम् । इत् । तत् । न । त्वावान् । अन्यः । अस्ति । इन्द्र । देवः । न । मर्त्यः । ज्यायान् । अहन् । अहिम् । परिशयानम् । अर्णः । अव । असृजः । अपः । अच्छ । समुद्रम् ॥satyam | it | tat | na | tvāvān | anyaḥ | asti | indra | devaḥ | na | martyaḥ | jyāyān | ahan | ahim | pari-śayānam | arṇaḥ | ava | asṛjaḥ | apaḥ | accha | samudram