Sukta 6.30
अद्या चिन्नू चित्तदपो नदीनां यदाभ्यो अरदो गातुमिन्द्र । नि पर्वता अद्मसदो न सेदुस्त्वया दृळ्हानि सुक्रतो रजांसि ॥
अ॒द्या चि॒न्नू चि॒त्तदपो॑ न॒दीनां॒ यदा॑भ्यो॒ अर॑दो गा॒तुमि॑न्द्र । नि पर्व॑ता अद्म॒सदो॒ न से॑दु॒स्त्वया॑ दृ॒ळ्हानि॑ सुक्रतो॒ रजां॑सि ॥
adyā́ cin nū́ cit tád ápo nadī́nāṁ yád ā́bhyo árado gātúm indra | ní párvatā adma-sádo ná séduḥ tváyā dṛḷhā́ni sukrato rájāṁsi ||
Even today, even now, that deed remains: you carved a path for the waters, for the rivers, O Indra. The mountains, dwellers in the rock, did not settle (hold them back); by you, O right-willed one, the firm worlds were made steadfast.
अ॒द्य । चि॒त् । नु । चि॒त् । तत् । अपः॑ । न॒दीना॑म् । यत् । आ॒भ्यः॒ । अर॑दः । गा॒तुम् । इ॒न्द्र॒ । नि । पर्व॑ताः । अ॒द्म॒ऽसदः॑ । न । से॒दुः॒ । त्वया॑ । दृ॒ळ्हानि॑ । सु॒क्र॒तो॒ इति॑ सुऽक्रतो । रजां॑सि ॥अद्य । चित् । नु । चित् । तत् । अपः । नदीनाम् । यत् । आभ्यः । अरदः । गातुम् । इन्द्र । नि । पर्वताः । अद्मसदः । न । सेदुः । त्वया । दृळ्हानि । सुक्रतो इति सुक्रतो । रजांसि ॥ada | cit | nu | cit | tat | apaḥ | nadīnām | yat | ābhyaḥ | aradaḥ | gātum | indra | ni | parvatāḥ | adma-sadaḥ | na | seduḥ | tvayā | dṛḷhāni | sukrato itisu-krato | rajāṃsi