Sukta 6.30
त्वमपो वि दुरो विषूचीरिन्द्र दृळ्हमरुजः पर्वतस्य । राजाभवो जगतश्चर्षणीनां साकं सूर्यं जनयन्द्यामुषासम् ॥
त्वम॒पो वि दुरो॒ विषू॑ची॒रिन्द्र॑ दृ॒ळ्हम॑रुज॒: पर्व॑तस्य । राजा॑भवो॒ जग॑तश्चर्षणी॒नां सा॒कं सूर्यं॑ ज॒नय॒न्द्यामु॒षास॑म् ॥
tvám ápo ví dúro viṣū́cīr índra dṛḷhám arujaḥ párvatasya | rājā́bhavo jágataś carṣaṇīnā́ṁ sā́kaṁ sū́ryaṁ janáyan dyā́m uṣásam ||
You opened wide the doors of the waters that were shut and scattered apart, O Indra; you broke the firm mountain. You became king of the moving world and of the peoples; together you brought to birth the Sun, the Heaven, and the Dawn.
त्वम् । अ॒पः । वि । दुरः॑ । विषू॑चीः । इन्द्र॑ । दृ॒ळ्हम् । अ॒रु॒जः॒ । पर्व॑तस्य । राजा॑ । अ॒भ॒वः॒ । जग॑तः । च॒र्ष॒णी॒नाम् । सा॒कम् । सूर्य॑म् । ज॒नय॑न् । द्याम् । उ॒षस॑म् ॥त्वम् । अपः । वि । दुरः । विषूचीः । इन्द्र । दृळ्हम् । अरुजः । पर्वतस्य । राजा । अभवः । जगतः । चर्षणीनाम् । साकम् । सूर्यम् । जनयन् । द्याम् । उषसम् ॥tvam | apaḥ | vi | duraḥ | viṣūcīḥ | indra | dṛḷham | arujaḥ | parvatasya | rājā | abhavaḥ | jagataḥ | carṣaṇīnām | sākam | sūryam | janayan | dyām | uṣasam