Sukta 6.30
अधा मन्ये बृहदसुर्यमस्य यानि दाधार नकिरा मिनाति । दिवेदिवे सूर्यो दर्शतो भूद्वि सद्मान्युर्विया सुक्रतुर्धात् ॥
अधा॑ मन्ये बृ॒हद॑सु॒र्य॑मस्य॒ यानि॑ दा॒धार॒ नकि॒रा मि॑नाति । दि॒वेदि॑वे॒ सूर्यो॑ दर्श॒तो भू॒द्वि सद्मा॑न्युर्वि॒या सु॒क्रतु॑र्धात् ॥
ádhā manye bṛhád asúryam asya yā́ni dādhā́ra nákir ā́ mināti | divé-dive sū́ryo darśató bhūd ví sadmā́ny urviyā́ su-krátur dhāt ||
Then I perceive the vast lordly power in him: what he has upheld, none can diminish. Day after day the Sun becomes visible; the wise-forming power has set wide the dwellings (fields) of existence.
अध॑ । म॒न्ये॒ । बृ॒हत् । अ॒सु॒र्य॑म् । अ॒स्य॒ । यानि॑ । दा॒धार॑ । नकिः॑ । आ । मि॒ना॒ति॒ । दि॒वेऽदि॑वे । सूर्यः॑ । द॒र्श॒तः । भू॒त् । वि । सद्मा॑नि । उ॒र्वि॒या । सु॒ऽक्रतुः॑ । धा॒त् ॥अध । मन्ये । बृहत् । असुर्यम् । अस्य । यानि । दाधार । नकिः । आ । मिनाति । दिवेदिवे । सूर्यः । दर्शतः । भूत् । वि । सद्मानि । उर्विया । सुक्रतुः । धात् ॥adha | manye | bṛhat | asuryam | asya | yāni | dādhāra | nakiḥ | ā | mināti | dive--dive | sūryaḥ | darśataḥ | bhūt | vi | sadmāni | urviyā | su-kratuḥ | dhāt