Sukta 6.30
भूय इद्वावृधे वीर्यायँ एको अजुर्यो दयते वसूनि । प्र रिरिचे दिव इन्द्रः पृथिव्या अर्धमिदस्य प्रति रोदसी उभे ॥
भूय॒ इद्वा॑वृधे वी॒र्या॑यँ॒ एको॑ अजु॒र्यो द॑यते॒ वसू॑नि । प्र रि॑रिचे दि॒व इन्द्र॑: पृथि॒व्या अ॒र्धमिद॑स्य॒ प्रति॒ रोद॑सी उ॒भे ॥
bhū́ya íd vā vāvṛdhe vīryā̀yaṁ éko ajúryo dayate vásūni | prá ririce divá índraḥ pṛthivyā́ árdham íd asya práti ródasī ubhé ||
Ever more he has grown for hero-power; the one, unfailing, dispenses the riches (the plenitudes). Indra has poured forth from Heaven and from Earth; half of his being answers to both the worlds.
भूयः॑ । इत् । व॒वृ॒धे॒ । वी॒र्या॑य । एकः॑ । अ॒जु॒र्यः । द॒य॒ते॒ । वसू॑नि । प्र । रि॒रि॒चे॒ । दि॒वः । इन्द्रः॑ । पृ॒थि॒व्याः । अ॒र्धम् । इत् । अ॒स्य॒ । प्रति॑ । रोद॑सी॒ इति॑ । उ॒भे इति॑ ॥भूयः । इत् । ववृधे । वीर्याय । एकः । अजुर्यः । दयते । वसूनि । प्र । रिरिचे । दिवः । इन्द्रः । पृथिव्याः । अर्धम् । इत् । अस्य । प्रति । रोदसी इति । उभे इति ॥bhūyaḥ | it | vavṛdhe | vīryāya | ekaḥ | ajuryaḥ | dayate | vasūni | pra | ririce | d ivaḥ | indraḥ | pṛthivyāḥ | ardham | it | asya | prati | rodasī iti | ubhe iti