Sukta 6.29
न ते अन्तः शवसो धाय्यस्य वि तु बाबधे रोदसी महित्वा । आ ता सूरिः पृणति तूतुजानो यूथेवाप्सु समीजमान ऊती ॥
न ते॒ अन्त॒: शव॑सो धाय्य॒स्य वि तु बा॑बधे॒ रोद॑सी महि॒त्वा । आ ता सू॒रिः पृ॑णति॒ तूतु॑जानो यू॒थेवा॒प्सु स॒मीज॑मान ऊ॒ती ॥
ná te antáḥ śávaso dhāyy asyá ví tu bābadhé ródasī mahitvā́ | ā́ tā́ sūríḥ pṛṇati tūtujā́no yū́thevā́psu sam-ī́jamāna ūtī́ ||
There is no inner limit to this force of yours; by your greatness you have made Heaven-and-Earth expand apart. To these (worlds/powers) the illumined giver comes, impelled and urging, filling them—like a herd moving together in the waters—by your protecting help.
न । ते॒ । अन्तः॑ । शव॑सः । धा॒यि॒ । अ॒स्य । वि । तु । बा॒ब॒धे॒ । रोद॑सी॒ इति॑ । म॒हि॒ऽत्वा । आ । ता । सू॒रिः । पृ॒ण॒ति॒ । तूतु॑जानः । यू॒थाऽइ॑व । अ॒प्ऽसु । स॒म्ऽईज॑मानः । ऊ॒ती ॥न । ते । अन्तः । शवसः । धायि । अस्य । वि । तु । बाबधे । रोदसी इति । महित्वा । आ । ता । सूरिः । पृणति । तूतुजानः । यूथाइव । अप्सु । सम्ईजमानः । ऊती ॥na | te | antaḥ | śavasaḥ | dhāyi | asya | vi | tu | bābadhe | rodasī iti | mahi-tvā | ā | tā | sūriḥ | pṛṇati | tūtujānaḥ | yūthāiva | ap-su | sam-ījamānaḥ | ūtī