Sukta 6.29
एवेदिन्द्रः सुहव ऋष्वो अस्तूती अनूती हिरिशिप्रः सत्वा । एवा हि जातो असमात्योजाः पुरू च वृत्रा हनति नि दस्यून् ॥
ए॒वेदिन्द्र॑: सु॒हव॑ ऋ॒ष्वो अ॑स्तू॒ती अनू॑ती हिरिशि॒प्रः सत्वा॑ । ए॒वा हि जा॒तो अस॑मात्योजाः पु॒रू च॑ वृ॒त्रा ह॑नति॒ नि दस्यू॑न् ॥
evéd índraḥ suháva ṛ́ṣvo astū́tī anū́tī hiriśipráḥ sátvā | evā́ hí jā́to asamāti-ojā́ḥ purū́ ca vṛtrā́ hanati ní dasyū́n ||
So indeed may Indra be the good-to-call, the lofty one—our help and repeated help—he of the tawny beard, the strong-being. For thus, born with an unconquerable force, he smites many obstructers and drives down the Dasyus (powers of darkness).
ए॒व । इत् । इन्द्रः॑ । सु॒ऽहवः॑ । ऋ॒ष्वः । अ॒स्तु॒ । ऊ॒ती । अनू॑ती । हि॒रि॒ऽशि॒प्रः । सत्वा॑ । ए॒व । हि । जा॒तः । अस॑मातिऽओजाः । पु॒रु । च॒ । वृ॒त्रा । ह॒न॒ति॒ । नि । दस्यू॑न् ॥एव । इत् । इन्द्रः । सुहवः । ऋष्वः । अस्तु । ऊती । अनूती । हिरिशिप्रः । सत्वा । एव । हि । जातः । असमातिओजाः । पुरु । च । वृत्रा । हनति । नि । दस्यून् ॥eva | it | indraḥ | su-havaḥ | ṛṣvaḥ | astu | ūtī | anūtī | hiri-śipraḥ | satvā | eva | hi | jātaḥ | asamāti-ojāḥ | puru | ca | vṛtrā | hanati | ni | dasyūn