Sukta 6.29
श्रिये ते पादा दुव आ मिमिक्षुर्धृष्णुर्वज्री शवसा दक्षिणावान् । वसानो अत्कं सुरभिं दृशे कं स्वर्ण नृतविषिरो बभूथ ॥
श्रि॒ये ते॒ पादा॒ दुव॒ आ मि॑मिक्षुर्धृ॒ष्णुर्व॒ज्री शव॑सा॒ दक्षि॑णावान् । वसा॑नो॒ अत्कं॑ सुर॒भिं दृ॒शे कं स्व१॒॑र्ण नृ॑तविषि॒रो ब॑भूथ ॥
śriyé te pā́dā dúva ā́ mimikṣur dhṛ́ṣṇur vajrī́ śávasā dakṣiṇā́vān | vásāno átkam surabhím dṛśé kám svàrṇa nṛ́to iṣiró babhūtha ||
For glory your feet have advanced in the act of giving; bold, the thunder-wielder, mighty in force, rich in the giving-power. Wearing the fragrant cloak for vision, you have become like the sun—impetuous in the dance of battle, swift in your motion.
श्रि॒ये । ते॒ । पादा॑ । दुवः॑ । आ । मि॒मि॒क्षुः॒ । धृ॒ष्णुः । व॒ज्री । शव॑सा । दक्षि॑णऽवान् । वसा॑नः । अत्क॑म् । सु॒र॒भिम् । दृ॒शे । कम् । स्वः॑ । न । नृ॒तो॒ इति॑ । इ॒षि॒रः । ब॒भू॒थ॒ ॥श्रिये । ते । पादा । दुवः । आ । मिमिक्षुः । धृष्णुः । वज्री । शवसा । दक्षिणवान् । वसानः । अत्कम् । सुरभिम् । दृशे । कम् । स्वः । न । नृतो इति । इषिरः । बभूथ ॥śriye | te | pādā | duvaḥ | ā | mimikṣuḥ | dhṛṣṇuḥ | vajrī | śavasā | dakṣiṇa-vān | vasānaḥ | atkam | surabhim | dṛśe | kam | svaḥ | na | nṛto iti | iṣiraḥ | babhūtha