Sukta 6.25
अध स्मा ते चर्षणयो यदेजानिन्द्र त्रातोत भवा वरूता । अस्माकासो ये नृतमासो अर्य इन्द्र सूरयो दधिरे पुरो नः ॥
अध॑ स्मा ते चर्ष॒णयो॒ यदेजा॒निन्द्र॑ त्रा॒तोत भ॑वा वरू॒ता । अ॒स्माका॑सो॒ ये नृत॑मासो अ॒र्य इन्द्र॑ सू॒रयो॑ दधि॒रे पु॒रो न॑: ॥
ádha smā te carṣaṇáyo yád ejā́n índra trā́tota bhava varūtā́ | asmā́kāso yé nṛ́tamāso aryá índra sū́rayo dadhiré púro naḥ ||
Then indeed your peoples, when they are in movement, O Indra—be our rescuer and our enclosing guard. For those who are ours, the most manful and Arya, O Indra, the seer-heroes, have set you in front of us as our fortress.
अध॑ । स्म॒ । ते॒ । च॒र्ष॒णयः॑ । यत् । एजा॑न् । इन्द्र॑ । त्रा॒ता । उ॒त । भ॒व॒ । व॒रू॒ता । अ॒स्माका॑सः । ये । नृऽत॑मासः । अ॒र्यः । इन्द्र॑ । सू॒रयः॑ । द॒धि॒रे । पु॒रः । नः॒ ॥अध । स्म । ते । चर्षणयः । यत् । एजान् । इन्द्र । त्राता । उत । भव । वरूता । अस्माकासः । ये । नृतमासः । अर्यः । इन्द्र । सूरयः । दधिरे । पुरः । नः ॥adha | sma | te | carṣaṇayaḥ | yat | ejān | indra | trātā | uta | bhava | varūtā | asmākāsaḥ | ye | nṛ-tamāsaḥ | aryaḥ | indra | sūrayaḥ | dadhire | puraḥ | naḥ