Sukta 6.25
स पत्यत उभयोर्नृम्णमयोर्यदी वेधसः समिथे हवन्ते । वृत्रे वा महो नृवति क्षये वा व्यचस्वन्ता यदि वितन्तसैते ॥
स प॑त्यत उ॒भयो॑र्नृ॒म्णम॒योर्यदी॑ वे॒धस॑: समि॒थे हव॑न्ते । वृ॒त्रे वा॑ म॒हो नृ॒वति॒ क्षये॑ वा॒ व्यच॑स्वन्ता॒ यदि॑ वितन्त॒सैते॑ ॥
sá patyate ubháyor nṛmṇám ayór yádī vedhásaḥ samithé hávante | vṛtré vā mahó nṛvátī kṣáye vā vyácasvantā yádi vitántasaite ||
He becomes lord of the human might of both sides when the wise-callers invoke him in the battle. Whether against Vṛtra or for a great increase in a man-filled home, when the expansive ones spread themselves out, he prevails.
सः । प॒त्य॒ते॒ । उ॒भयोः॑ । नृ॒म्णम् । अ॒योः । यदि॑ । वे॒धसः॑ । स॒म्ऽइ॒थे । हव॑न्ते । वृ॒त्रे । वा॒ । म॒हः । नृ॒ऽवति॑ । क्षये॑ । वा॒ । व्यच॑स्वन्ता । यदि॑ । वि॒त॒न्त॒सैते॒ इति॑ ॥सः । पत्यते । उभयोः । नृम्णम् । अयोः । यदि । वेधसः । सम्इथे । हवन्ते । वृत्रे । वा । महः । नृवति । क्षये । वा । व्यचस्वन्ता । यदि । वितन्तसैते इति ॥saḥ | patyate | ubhayoḥ | nṛmṇam | ayoḥ | yadi | vedhasaḥ | sam-ithe | havante | vṛtre | vā | mahaḥ | nṛ-vati | kṣaye | vā | vyacasvantā | yadi | vitantasaiteiti