Sukta 6.25
नहि त्वा शूरो न तुरो न धृष्णुर्न त्वा योधो मन्यमानो युयोध । इन्द्र नकिष्ट्वा प्रत्यस्त्येषां विश्वा जातान्यभ्यसि तानि ॥
न॒हि त्वा॒ शूरो॒ न तु॒रो न धृ॒ष्णुर्न त्वा॑ यो॒धो मन्य॑मानो यु॒योध॑ । इन्द्र॒ नकि॑ष्ट्वा॒ प्रत्य॑स्त्येषां॒ विश्वा॑ जा॒तान्य॒भ्य॑सि॒ तानि॑ ॥
náhi tvā śū́ro ná turó ná dhṛ́ṣṇur ná tvā yódho manyámāno yuyódha | índra nákiṣ ṭvā práty asty eṣāṃ víśvā jātā́ny abhy ási tā́ni ||
No hero, no swift one, no bold fighter—none who thinks himself a warrior—has ever fought you down. Indra, no one stands against you among them; you overtop all that is born.
न॒हि । त्वा॒ । शूरः॑ । न । तु॒रः । न । धृ॒ष्णुः । न । त्वा॒ । यो॒धः । मन्य॑मानः । यु॒योध॑ । इन्द्र॑ । नकिः॑ । त्वा॒ । प्रति॑ । अ॒स्ति॒ । ए॒षा॒म् । विश्वा॑ । जा॒तानि॑ । अ॒भि । अ॒सि॒ । तानि॑ ॥नहि । त्वा । शूरः । न । तुरः । न । धृष्णुः । न । त्वा । योधः । मन्यमानः । युयोध । इन्द्र । नकिः । त्वा । प्रति । अस्ति । एषाम् । विश्वा । जातानि । अभि । असि । तानि ॥nahi | tvā | śūraḥ | na | turaḥ | na | dhṛṣṇuḥ | na | tvā | yodhaḥ | manyamānaḥ | yuyodha | indra | nakiḥ | tvā | prati | asti | eṣām | viśvā | jātāni | abhi | asi | tāni