Sukta 6.25
शूरो वा शूरं वनते शरीरैस्तनूरुचा तरुषि यत्कृण्वैते । तोके वा गोषु तनये यदप्सु वि क्रन्दसी उर्वरासु ब्रवैते ॥
शूरो॑ वा॒ शूरं॑ वनते॒ शरी॑रैस्तनू॒रुचा॒ तरु॑षि॒ यत्कृ॒ण्वैते॑ । तो॒के वा॒ गोषु॒ तन॑ये॒ यद॒प्सु वि क्रन्द॑सी उ॒र्वरा॑सु॒ ब्रवै॑ते ॥
śū́ro vā śū́raṃ vanate śárīrais tanū-rú cā tár uṣi yát kṛṇváite | tók e vā góṣu tánaye yád apsú ví krándasī urvárāsu brávāite ||
A hero indeed wins a hero by the powers of the embodied being, when you accomplish the conquering work with the light of your own substance. Whether in the child, or in the herds of light, or in the offspring, or in the waters—your cry breaks forth; in the wide fields you make your proclamation.
शूरः॑ । वा॒ । शूर॑म् । व॒न॒ते॒ । शरी॑रैः । त॒नू॒ऽरुचा॑ । तरु॑षि । यत् । कृ॒ण्वैते॒ इति॑ । तो॒के । वा॒ । गोषु॑ । तन॑ये । यत् । अ॒प्ऽसु । वि । क्रन्द॑सी॒ इति॑ । उ॒र्वरा॑सु । ब्रवै॑ते॒ इति॑ ॥शूरः । वा । शूरम् । वनते । शरीरैः । तनूरुचा । तरुषि । यत् । कृण्वैते इति । तोके । वा । गोषु । तनये । यत् । अप्सु । वि । क्रन्दसी इति । उर्वरासु । ब्रवैते इति ॥śūraḥ | vā | śūram | vanate | śarīraiḥ | tanū-rucā | taruṣi | yat | kṛṇvaiteiti | toke | vā | goṣu | tanaye | yat | ap-su | vi | krandasī iti | urvarāsu | bravaiteiti