Sukta 6.25
इन्द्र जामय उत येऽजामयोऽर्वाचीनासो वनुषो युयुज्रे । त्वमेषां विथुरा शवांसि जहि वृष्ण्यानि कृणुही पराचः ॥
इन्द्र॑ जा॒मय॑ उ॒त येऽजा॑मयोऽर्वाची॒नासो॑ व॒नुषो॑ युयु॒ज्रे । त्वमे॑षां विथु॒रा शवां॑सि ज॒हि वृष्ण्या॑नि कृणु॒ही परा॑चः ॥
índra jāmáya utá yé ’jāmayo ’rvācīnā́so vánuṣo yuyujré | tvám eṣāṃ vithurā́ śávāṃsi jahí vṛ́ṣṇyāni kṛṇuhī́ parā́caḥ ||
Indra, whether they are kin or not-kin, those who have yoked themselves against us and press from near—do you strike down their disruptive powers; make their violent strengths turn away.
इन्द्र॑ । जा॒मयः॑ । उ॒त । ये । अजा॑मयः । अ॒र्वा॒ची॒नासः॑ । व॒नुषः॑ । यु॒यु॒ज्रे । त्वम् । ए॒षा॒म् । वि॒थु॒रा । शवां॑सि । ज॒हि । वृष्ण्या॑नि । कृ॒णु॒हि । परा॑चः ॥इन्द्र । जामयः । उत । ये । अजामयः । अर्वाचीनासः । वनुषः । युयुज्रे । त्वम् । एषाम् । विथुरा । शवांसि । जहि । वृष्ण्यानि । कृणुहि । पराचः ॥indra | jāmayaḥ | uta | ye | ajāmayaḥ | arvācīnāsaḥ | vanuṣaḥ | yuyujre | tvam | eṣām | vithurā | śavāṃsi | jahi | vṛṣṇyāni | kṛṇuhi | parācaḥ