Sukta 6.25
आभिः स्पृधो मिथतीररिषण्यन्नमित्रस्य व्यथया मन्युमिन्द्र । आभिर्विश्वा अभियुजो विषूचीरार्याय विशोऽव तारीर्दासीः ॥
आभि॒: स्पृधो॑ मिथ॒तीररि॑षण्यन्न॒मित्र॑स्य व्यथया म॒न्युमि॑न्द्र । आभि॒र्विश्वा॑ अभि॒युजो॒ विषू॑ची॒रार्या॑य॒ विशोऽव॑ तारी॒र्दासी॑: ॥
ā́bhiḥ spṛ́dho mithatī́r áriṣaṇyann amítrasya vyathayā manyúm indra | ā́bhir víśvā abhiyújo víṣūcīr ā́ryāya víśo ’vá tārīr dā́sīḥ ||
By these (powers) repel the rivalries that clash, O unassailable Indra; shatter the wrath of the hostile. By these overcome all adversarial onsets that strike from many directions; for the Arya-consciousness lead down the Dāsa-forces.
आभिः॑ । स्पृधः॑ । मि॒थ॒तीः । अरि॑षण्यन् । अ॒मित्र॑स्य । व्य॒थ॒य॒ । म॒न्युम् । इ॒न्द्र॒ । आभिः॑ । विश्वाः॑ । अ॒भि॒ऽयुजः॑ । विषू॑चीः । आर्या॑य । विशः॑ । अव॑ । ता॒रीः॒ । दासीः॑ ॥आभिः । स्पृधः । मिथतीः । अरिषण्यन् । अमित्रस्य । व्यथय । मन्युम् । इन्द्र । आभिः । विश्वाः । अभियुजः । विषूचीः । आर्याय । विशः । अव । तारीः । दासीः ॥ābhiḥ | spṛdhaḥ | mithatīḥ | ariṣaṇyan | amitrasya | vyathaya | manyum | indra | ābhiḥ | viśvāḥ | abhi-yujaḥ | viṣūcīḥ | āryāya | viśaḥ | ava | tārīḥ | dāsīḥ