Sukta 6.25
या त ऊतिरवमा या परमा या मध्यमेन्द्र शुष्मिन्नस्ति । ताभिरू षु वृत्रहत्येऽवीर्न एभिश्च वाजैर्महान्न उग्र ॥
या त॑ ऊ॒तिर॑व॒मा या प॑र॒मा या म॑ध्य॒मेन्द्र॑ शुष्मि॒न्नस्ति॑ । ताभि॑रू॒ षु वृ॑त्र॒हत्ये॑ऽवीर्न ए॒भिश्च॒ वाजै॑र्म॒हान्न॑ उग्र ॥
yā́ ta ūtír avamā́ yā́ paramā́ yā́ madhyaméndra śuṣminn ásti | tā́bhir ū ṣú vṛtra-hátye ’vīr na ebhíś ca vā́jair mahā́n na ugra ||
Whatever your help is—lower, higher, or in the middle—O forceful Indra, by those do you carry us through the slaying of the Obstructor; and by these plenitudes of force make us great, O mighty one.
या । ते॒ । ऊ॒तिः । अ॒व॒मा । या । प॒र॒मा । या । म॒ध्य॒मा । इ॒न्द्र॒ । शु॒ष्मि॒न् । अस्ति॑ । ताभिः॑ । ऊँ॒ इति॑ । सु । वृ॒त्र॒ऽहत्ये॑ । अ॒वीः॒ । नः॒ । ए॒भिः । च॒ । वाजैः॑ । म॒हान् । नः॒ । उ॒ग्र॒ ॥या । ते । ऊतिः । अवमा । या । परमा । या । मध्यमा । इन्द्र । शुष्मिन् । अस्ति । ताभिः । ऊँ इति । सु । वृत्रहत्ये । अवीः । नः । एभिः । च । वाजैः । महान् । नः । उग्र ॥yā | te | ūtiḥ | avamā | yā | paramā | yā | madhyamā | indra | śuṣmin | asti | tābhiḥ | oṃ iti | su | vṛtra-hatye | avīḥ | naḥ | ebhiḥ | ca | vājaiḥ | mahān | naḥ | ugra