Sukta 6.22
भुवो जनस्य दिव्यस्य राजा पार्थिवस्य जगतस्त्वेषसंदृक् । धिष्व वज्रं दक्षिण इन्द्र हस्ते विश्वा अजुर्य दयसे वि मायाः ॥
भुवो॒ जन॑स्य दि॒व्यस्य॒ राजा॒ पार्थि॑वस्य॒ जग॑तस्त्वेषसंदृक् । धि॒ष्व वज्रं॒ दक्षि॑ण इन्द्र॒ हस्ते॒ विश्वा॑ अजुर्य दयसे॒ वि मा॒याः ॥
bhuvó jánasya divyásya rājā pārthívasya jágatastveṣa-sandṛk | dhiṣvá vájraṃ dákṣiṇa indra háste víśvā ajurya dayase ví māyā́ḥ ||
O Indra, luminous-seeing King of the divine people and of the earthly moving world, set thy thunder-force in thy right hand. Unaging one, pour out and apportion all thy powers of effective formation, that they may become for us a wide working of Light.
भुवः॑ । जन॑स्य । दि॒व्यस्य॑ । राजा॑ । पार्थि॑वस्य । जग॑तः । त्वे॒ष॒ऽस॒न्दृ॒क् । धि॒ष्व । वज्र॑म् । दक्षि॑णे । इ॒न्द्र॒ । हस्ते॑ । विश्वा॑ । अ॒जु॒र्य॒ । द॒य॒से॒ । वि । मा॒याः ॥भुवः । जनस्य । दिव्यस्य । राजा । पार्थिवस्य । जगतः । त्वेषसन्दृक् । धिष्व । वज्रम् । दक्षिणे । इन्द्र । हस्ते । विश्वा । अजुर्य । दयसे । वि । मायाः ॥bhuvaḥ | janasya | divyasya | rājā | pārthivasya | jagataḥ | tveṣa-sandṛk | dhiṣva | vajram | dakṣiṇe | indra | haste | viśvā | ajurya | dayase | vi | māyāḥ