Sukta 6.22
आ जनाय द्रुह्वणे पार्थिवानि दिव्यानि दीपयोऽन्तरिक्षा । तपा वृषन्विश्वतः शोचिषा तान्ब्रह्मद्विषे शोचय क्षामपश्च ॥
आ जना॑य॒ द्रुह्व॑णे॒ पार्थि॑वानि दि॒व्यानि॑ दीपयो॒ऽन्तरि॑क्षा । तपा॑ वृषन्वि॒श्वत॑: शो॒चिषा॒ तान्ब्र॑ह्म॒द्विषे॑ शोचय॒ क्षाम॒पश्च॑ ॥
ā́ jánāya druhváṇe pārthivā́ni divyā́ni dīpayo 'ntárikṣā | tápā vṛṣan viśvátah śóciṣā tā́n brahma-dvíṣe śocaya kṣā́m apáś ca ||
Against the hostile people, blaze forth the earthly and the heavenly (fires), and the mid-region. Burn, O Bull, on every side with your flame; scorch those who hate the sacred Word—scorch the earth and the waters (for them).
आ । जना॑य । द्रुह्व॑णे । पार्थि॑वानि । दि॒व्यानि॑ । दी॒प॒यः॒ । अ॒न्तरि॑क्षा । तप॑ । वृ॒ष॒न् । वि॒श्वतः॑ । शो॒चिषा॑ । तान् । ब्र॒ह्म॒ऽद्विषे॑ । शो॒च॒य॒ । क्षाम् । अ॒पः । च॒ ॥आ । जनाय । द्रुह्वणे । पार्थिवानि । दिव्यानि । दीपयः । अन्तरिक्षा । तप । वृषन् । विश्वतः । शोचिषा । तान् । ब्रह्मद्विषे । शोचय । क्षाम् । अपः । च ॥ā | janāya | druhvaṇe | pārthivāni | divyāni | dīpayaḥ | antarikṣā | tapa | vṛṣan | viśvataḥ | śociṣā | tān | brahma-dviṣe | śocaya | kṣām | apaḥ | ca