Sukta 6.22
तं वो धिया नव्यस्या शविष्ठं प्रत्नं प्रत्नवत्परितंसयध्यै । स नो वक्षदनिमानः सुवह्मेन्द्रो विश्वान्यति दुर्गहाणि ॥
तं वो॑ धि॒या नव्य॑स्या॒ शवि॑ष्ठं प्र॒त्नं प्र॑त्न॒वत्प॑रितंस॒यध्यै॑ । स नो॑ वक्षदनिमा॒नः सु॒वह्मेन्द्रो॒ विश्वा॒न्यति॑ दु॒र्गहा॑णि ॥
táṃ vo dhiyā́ návyasyā śáviṣṭhaṃ pratnáṃ pratná-vat paritaṃsayádhyai | sá no vakṣad ani-mānáḥ su-váhnem índro víśvāny áti duḥ-gáhāṇi ||
Him, the most strong, with a newer thought we would encompass as the ancient, in the ancient way. May Indra, without self-conceit, carry us well, beyond all hard-to-cross passages.
तम् । वः॒ । धि॒या । नव्य॑स्या । शवि॑ष्ठम् । प्र॒त्नम् । प्र॒त्न॒ऽवत् । प॒रि॒ऽतं॒स॒यध्यै॑ । सः । नः॒ । व॒क्ष॒त् । अ॒नि॒ऽमा॒नः । सु॒ऽवह्ना॑ । इन्द्रः॑ । विश्वा॑नि । अति॑ । दुः॒ऽगहा॑णि ॥तम् । वः । धिया । नव्यस्या । शविष्ठम् । प्रत्नम् । प्रत्नवत् । परितंसयध्यै । सः । नः । वक्षत् । अनिमानः । सुवह्ना । इन्द्रः । विश्वानि । अति । दुःगहाणि ॥tam | vaḥ | dhiyā | navyasyā | śaviṣṭham | pratnam | pratna-vat | pari-taṃsayadhyai | saḥ | naḥ | vakṣat | ani-mānaḥ | su-vahnā | indraḥ | viśvāni | ati | duḥ-gahāṇi