Sukta 6.22
अया ह त्यं मायया वावृधानं मनोजुवा स्वतवः पर्वतेन । अच्युता चिद्वीळिता स्वोजो रुजो वि दृळ्हा धृषता विरप्शिन् ॥
अ॒या ह॒ त्यं मा॒यया॑ वावृधा॒नं म॑नो॒जुवा॑ स्वतव॒: पर्व॑तेन । अच्यु॑ता चिद्वीळि॒ता स्वो॑जो रु॒जो वि दृ॒ळ्हा धृ॑ष॒ता वि॑रप्शिन् ॥
ayā́ ha tyáṃ māyáyā vāvṛdhānáṃ manó-juvā sva-taváḥ párvatena | ácyutā cid vīḷitā́ svòjo rújo ví dṛḷhā́ dhṛṣatā́ ví-rapśin ||
By this (power) indeed—him who grows by formative might, swift as mind, strong in his own energy—(he) with the mountain broke even the unmoving, the fastened; with native force he shattered the firm-held restraints, daringly, O wielder of wide-working power.
अ॒या । ह॒ । त्यम् । मा॒यया॑ । व॒वृ॒धा॒नम् । म॒नः॒ऽजुवा॑ । स्व॒ऽत॒वः॒ । पर्व॑तेन । अच्यु॑ता । चि॒त् । वी॒ळि॒ता । सु॒ऽओ॒जः॒ । रु॒जः । वि । दृ॒ळ्हा । धृ॒ष॒ता । वि॒ऽर॒प्शि॒न् ॥अया । ह । त्यम् । मायया । ववृधानम् । मनःजुवा । स्वतवः । पर्वतेन । अच्युता । चित् । वीळिता । सुओजः । रुजः । वि । दृळ्हा । धृषता । विरप्शिन् ॥ayā | ha | tyam | māyayā | vavṛdhānam | manaḥ-juvā | sva-tavaḥ | parvatena | acyutā | cit | vīḷitā | su-ojaḥ | rujaḥ | vi | dṛḷhā | dhṛṣatā | vi-rapśin