Sukta 6.22
तन्नो वि वोचो यदि ते पुरा चिज्जरितार आनशुः सुम्नमिन्द्र । कस्ते भागः किं वयो दुध्र खिद्वः पुरुहूत पुरूवसोऽसुरघ्नः ॥
तन्नो॒ वि वो॑चो॒ यदि॑ ते पु॒रा चि॑ज्जरि॒तार॑ आन॒शुः सु॒म्नमि॑न्द्र । कस्ते॑ भा॒गः किं वयो॑ दुध्र खिद्व॒: पुरु॑हूत पुरूवसोऽसुर॒घ्नः ॥
tán no ví voco yádi te purā́ cít jaritā́ra ānaśúḥ sumnám indra | kás te bhāgáḥ kíṃ váyo dudhra khidváḥ puru-hūta purū́-vaso asura-ghnáḥ ||
Tell it out clearly to us: if even of old the singers attained your grace, O Indra—what is your portion for us now, what strengthening nourishment for our pressed-out effort? O much-invoked, wide-wealthy, slayer of the hostile powers.
तत् । नः॒ । वि । वो॒चः॒ । यदि॑ । ते॒ । पु॒रा । चि॒त् । ज॒रि॒तारः॑ । आ॒न॒शुः । सु॒म्नम् । इ॒न्द्र॒ । कः । ते॒ । भा॒गः । किम् । वयः॑ । दु॒ध्र॒ । खि॒द्वः॒ । पुरु॑ऽहूत । पु॒रु॒व॒सो॒ इति॑ पुरुऽवसो । अ॒सु॒र॒ऽघ्नः ॥तत् । नः । वि । वोचः । यदि । ते । पुरा । चित् । जरितारः । आनशुः । सुम्नम् । इन्द्र । कः । ते । भागः । किम् । वयः । दुध्र । खिद्वः । पुरुहूत । पुरुवसो इति पुरुवसो । असुरघ्नः ॥tat | naḥ | vi | vocaḥ | yadi | te | purā | cit | jaritāraḥ | ānaśuḥ | sumnam | indra | kaḥ | te | bhāgaḥ | kim | vayaḥ | dudhra | khidvaḥ | puru-hūta | puruvaso itipuru-vaso | asura-ghnaḥ