Sukta 6.22
तमीमह इन्द्रमस्य रायः पुरुवीरस्य नृवतः पुरुक्षोः । यो अस्कृधोयुरजरः स्वर्वान्तमा भर हरिवो मादयध्यै ॥
तमी॑मह॒ इन्द्र॑मस्य रा॒यः पु॑रु॒वीर॑स्य नृ॒वत॑: पुरु॒क्षोः । यो अस्कृ॑धोयुर॒जर॒: स्व॑र्वा॒न्तमा भ॑र हरिवो माद॒यध्यै॑ ॥
tám īmahe índram asyá rāyáḥ puru-vī́rasya nṛ-vátaḥ puru-kṣóḥ | yó askṛ́dhoyur ajáraḥ svàr-vāntám ā́ bhara hari-vo mādayádhyai ||
Him we seek—Indra—for this wealth of plenitude: rich in heroes, full of men, abundant in increase. He who is unfailing in his giving, ageless, possessing the light of heaven—bring him here, O lord of the tawny steeds, for our ecstasy of force.
तम् । ई॒म॒हे॒ । इन्द्र॑म् । अ॒स्य॒ । रा॒यः । पु॒रु॒ऽवीर॑स्य । नृ॒ऽवतः॑ । पु॒रु॒ऽक्षोः । यः । अस्कृ॑धोयुः । अ॒जरः॑ । स्वः॑ऽवान् । तम् । आ । भ॒र॒ । ह॒रि॒ऽवः॒ । मा॒द॒यध्यै॑ ॥तम् । ईमहे । इन्द्रम् । अस्य । रायः । पुरुवीरस्य । नृवतः । पुरुक्षोः । यः । अस्कृधोयुः । अजरः । स्वःवान् । तम् । आ । भर । हरिवः । मादयध्यै ॥tam | īmahe | indram | asya | rāyaḥ | puru-vīrasya | nṛ-vataḥ | puru-kṣoḥ | yaḥ | askṛdhoyuḥ | ajaraḥ | svaḥ-vān | tam | ā | bhara | hari-vaḥ | mādayadhyai