Sukta 6.22
तमु नः पूर्वे पितरो नवग्वाः सप्त विप्रासो अभि वाजयन्तः । नक्षद्दाभं ततुरिं पर्वतेष्ठामद्रोघवाचं मतिभिः शविष्ठम् ॥
तमु॑ न॒: पूर्वे॑ पि॒तरो॒ नव॑ग्वाः स॒प्त विप्रा॑सो अ॒भि वा॒जय॑न्तः । न॒क्ष॒द्दा॒भं ततु॑रिं पर्वते॒ष्ठामद्रो॑घवाचं म॒तिभि॒: शवि॑ष्ठम् ॥
tám u naḥ pū́rve pitáro náva-gvāḥ saptá víprāso abhí vā́jayantaḥ | nákṣad-dā́bhaṃ táturiṃ parvateṣṭhā́m ádrogha-vācaṃ matí-bhiḥ śáviṣṭham ||
Him our forefathers, the Navagvas, the seven seers, pressing forward for the plenitude, attained—the unassailable, the overcomer, established on the mountain-heights; whose word is without betrayal; the most strong, by their concentrated thoughts.
तम् । ऊँ॒ इति॑ । नः॒ । पूर्वे॑ । पि॒तरः॑ । नव॑ऽग्वाः । स॒प्त । विप्रा॑सः । अ॒भि । वा॒जय॑न्तः । न॒क्ष॒त्ऽदा॒भम् । ततु॑रिम् । प॒र्व॒ते॒ऽस्थाम् । अद्रो॑घऽवाचम् । म॒तिऽभिः॑ । शवि॑ष्ठम् ॥तम् । ऊँ इति । नः । पूर्वे । पितरः । नवग्वाः । सप्त । विप्रासः । अभि । वाजयन्तः । नक्षत्दाभम् । ततुरिम् । पर्वतेस्थाम् । अद्रोघवाचम् । मतिभिः । शविष्ठम् ॥tam | oṃ iti | naḥ | pūrve | pitaraḥ | nava-gvāḥ | sapta | viprāsaḥ | abhi | vājayantaḥ | nakṣat-dābham | taturim | parvate--sthām | adrogha-vācam | mati-bhiḥ | śaviṣṭham