Sukta 6.21
तमु स्तुष इन्द्रं यो विदानो गिर्वाहसं गीर्भिर्यज्ञवृद्धम् । यस्य दिवमति मह्ना पृथिव्याः पुरुमायस्य रिरिचे महित्वम् ॥
तमु॑ स्तुष॒ इन्द्रं॒ यो विदा॑नो॒ गिर्वा॑हसं गी॒र्भिर्य॒ज्ञवृ॑द्धम् । यस्य॒ दिव॒मति॑ म॒ह्ना पृ॑थि॒व्याः पु॑रुमा॒यस्य॑ रिरि॒चे म॑हि॒त्वम् ॥
tamu stuṣe indraṃ yo vidāno girvāhasaṃ gīrbhir yajña-vṛddham | yasya divam ati mahnā pṛthivyāḥ puru-māyasya ririce mahi-tvam ||
Him I affirm—Indra—known in the seeing, the carrier of the inspired songs, increased by the sacrifice. His greatness, manifold in power, has overflowed by might beyond heaven and beyond earth.
तम् । ऊँ॒ इति॑ । स्तु॒षे॒ । इन्द्र॑म् । यः । विदा॑नः । गिर्वा॑हसम् । गीः॒ऽभिः । य॒ज्ञऽवृ॑द्धम् । यस्य॑ । दिव॑म् । अति॑ । म॒ह्ना । पृ॒थि॒व्याः । पु॒रु॒ऽमा॒यस्य॑ । रि॒रि॒चे । म॒हि॒ऽत्वम् ॥तम् । ऊँ इति । स्तुषे । इन्द्रम् । यः । विदानः । गिर्वाहसम् । गीःभिः । यज्ञवृद्धम् । यस्य । दिवम् । अति । मह्ना । पृथिव्याः । पुरुमायस्य । रिरिचे । महित्वम् ॥tam | oṃ iti | stuṣe | indram | yaḥ | vidānaḥ | girvāhasam | gīḥ-bhiḥ | yajña-vṛddham | yasya | divam | ati | mahnā | pṛthivyāḥ | puru-māyasya | ririce | mahi-tvam