Sukta 6.21
इमा उ त्वा पुरुतमस्य कारोर्हव्यं वीर हव्या हवन्ते । धियो रथेष्ठामजरं नवीयो रयिर्विभूतिरीयते वचस्या ॥
इ॒मा उ॑ त्वा पुरु॒तम॑स्य का॒रोर्हव्यं॑ वीर॒ हव्या॑ हवन्ते । धियो॑ रथे॒ष्ठाम॒जरं॒ नवी॑यो र॒यिर्विभू॑तिरीयते वच॒स्या ॥
imā u tvā purutamasya kāror havyaṃ vīra havyā havante | dhiyo ratheṣṭhām ajaraṃ navīyo rayir vibhūtir īyate vacasyā ||
These offerings call to you, O Hero, from the singer who is richest in plenitude. The oblations summon you. The inspired thoughts, firm-set on the chariot-path, ever-young and undecaying, move forward as a rayi—an all-pervading fullness—through the power of the word.
इ॒माः । ऊँ॒ इति॑ । त्वा॒ । पु॒रु॒ऽतम॑स्य । का॒रोः । हव्य॑म् । वी॒र॒ । हव्याः॑ । ह॒व॒न्ते॒ । धियः॑ । र॒थे॒ऽस्थाम् । अ॒जर॑म् । नवी॑यः । र॒यिः । विऽभू॑तिः । ई॒य॒ते॒ । व॒च॒स्या ॥इमाः । ऊँ इति । त्वा । पुरुतमस्य । कारोः । हव्यम् । वीर । हव्याः । हवन्ते । धियः । रथेस्थाम् । अजरम् । नवीयः । रयिः । विभूतिः । ईयते । वचस्या ॥imāḥ | oṃ iti | tvā | puru-tamasya | kāroḥ | havyam | vīra | havyāḥ | havante | dhiyaḥ | rathe--sthām | ajaram | navīyaḥ | rayiḥ | vi-bhūtiḥ | īyate | vacasyā