Sukta 6.20
स ईं स्पृधो वनते अप्रतीतो बिभ्रद्वज्रं वृत्रहणं गभस्तौ । तिष्ठद्धरी अध्यस्तेव गर्ते वचोयुजा वहत इन्द्रमृष्वम् ॥
स ईं॒ स्पृधो॑ वनते॒ अप्र॑तीतो॒ बिभ्र॒द्वज्रं॑ वृत्र॒हणं॒ गभ॑स्तौ । तिष्ठ॒द्धरी॒ अध्यस्ते॑व॒ गर्ते॑ वचो॒युजा॑ वहत॒ इन्द्र॑मृ॒ष्वम् ॥
sá īṃ spṛ́dho vanate ápratīto bíbhrad vájraṃ vṛtrá-haṇaṃ gábhastau | tíṣṭhadd hárī ádhy astéva gárte vaco-yújā vahata índram ṛ́ṣvam ||
He conquers the challengers, irresistible, bearing in his grasp the thunderbolt that slays the Coverer. His two tawny powers stand poised like two steeds at the yoke-station; yoked by the Word, they carry Indra, the high and uplifted force.
सः । ई॒म् । स्पृधः॑ । व॒न॒ते॒ । अप्र॑तिऽइतः । बिभ्र॑त् । वज्र॑म् । वृ॒त्र॒ऽहन॑म् । गभ॑स्तौ । तिष्ठ॑त् । हरी॒ इति॑ । अधि॑ । अस्ता॑ऽइव । गर्ते॑ । व॒चः॒ऽयुजा॑ । व॒ह॒तः॒ । इन्द्र॑म् । ऋ॒ष्वम् ॥सः । ईम् । स्पृधः । वनते । अप्रतिइतः । बिभ्रत् । वज्रम् । वृत्रहनम् । गभस्तौ । तिष्ठत् । हरी इति । अधि । अस्ताइव । गर्ते । वचःयुजा । वहतः । इन्द्रम् । ऋष्वम् ॥saḥ | īm | spṛdhaḥ | vanate | aprati-itaḥ | bibhrat | vajram | vṛtra-hanam | gabhastau | tiṣṭhat | harī iti | adhi | astāiva | garte | vacaḥ-yujā | vahataḥ | indram | ṛṣvam