Sukta 6.20
स वेतसुं दशमायं दशोणिं तूतुजिमिन्द्रः स्वभिष्टिसुम्नः । आ तुग्रं शश्वदिभं द्योतनाय मातुर्न सीमुप सृजा इयध्यै ॥
स वे॑त॒सुं दश॑मायं॒ दशो॑णिं॒ तूतु॑जि॒मिन्द्र॑: स्वभि॒ष्टिसु॑म्नः । आ तुग्रं॒ शश्व॒दिभं॒ द्योत॑नाय मा॒तुर्न सी॒मुप॑ सृजा इ॒यध्यै॑ ॥
sá vetasúṃ daśamā́yaṃ daśóṇiṃ tū́tujim índraḥ svabhiṣṭí-sumnaḥ | ā́ túgraṃ śáśvad íbhaṃ dyótanāya mātúr ná sīm úpa sṛja iyádhyai ||
Indra, rich in the joy of perfect help, roused Vetasu—of the tenfold skill, of the tenfold energy—ever impelling him. He set him forward like a mother sets her child near, for shining forth: the strong, enduring, powerful one to grow into his work.
सः । वे॒त॒सुम् । दश॑ऽमायम् । दश॑ऽओणिम् । तूतु॑जिम् । इन्द्रः॑ । स्व॒भि॒ष्टिऽसु॑म्नः । आ । तुग्र॑म् । शश्व॑त् । इभ॑म् । द्योत॑नाय । मा॒तुः । न । सी॒म् । उप॑ । सृ॒ज॒ । इ॒यध्यै॑ ॥सः । वेतसुम् । दशमायम् । दशओणिम् । तूतुजिम् । इन्द्रः । स्वभिष्टिसुम्नः । आ । तुग्रम् । शश्वत् । इभम् । द्योतनाय । मातुः । न । सीम् । उप । सृज । इयध्यै ॥saḥ | vetasum | daśa-māyam | daśa-oṇim | tūtujim | indraḥ | svabhiṣṭi-sumnaḥ | ā | tugram | śaśvat | ibham | dyotanāya | mātuḥ | na | sīm | upa | sṛja | iyadhyai