Sukta 6.20
सनेम तेऽवसा नव्य इन्द्र प्र पूरवः स्तवन्त एना यज्ञैः । सप्त यत्पुरः शर्म शारदीर्दर्द्धन्दासीः पुरुकुत्साय शिक्षन् ॥
स॒नेम॒ तेऽव॑सा॒ नव्य॑ इन्द्र॒ प्र पू॒रव॑: स्तवन्त ए॒ना य॒ज्ञैः । स॒प्त यत्पुर॒: शर्म॒ शार॑दी॒र्दर्द्धन्दासी॑: पुरु॒कुत्सा॑य॒ शिक्ष॑न् ॥
sanéma té ’vasā návya indra prá pū́ravaḥ stavanta enā́ yajñáiḥ | saptá yát púraḥ śárma śā́radīr dárddhan dāsī́ḥ puru-kútsāya śíkṣan ||
May we win by thy ever-new help, O Indra; the Pūrus praise thee forward with these sacrifices. When thou didst shatter the seven autumnal strongholds that were a false shelter of the Dāsas, thou wast training and empowering Purukutsa for his victory.
स॒नेम॑ । ते । अव॑सा । नव्यः॑ । इ॒न्द्र॒ । प्र । पू॒रवः॑ । स्त॒व॒न्ते॒ । ए॒ना । य॒ज्ञैः । स॒प्त । यत् । पुरः॑ । शर्म॑ । शार॑दीः । दर्त् । हन् । दासीः॑ । पु॒रु॒ऽकुत्सा॑य । शिक्ष॑न् ॥सनेम । ते । अवसा । नव्यः । इन्द्र । प्र । पूरवः । स्तवन्ते । एना । यज्ञैः । सप्त । यत् । पुरः । शर्म । शारदीः । दर्त् । हन् । दासीः । पुरुकुत्साय । शिक्षन् ॥sanema | te | avasā | navyaḥ | indra | pra | pūravaḥ | stavante | enā | yajñaiḥ | sapta | yat | puraḥ | śarma | śāradīḥ | darta | han | dāsīḥ | puru-kutsāya | śikṣan