Sukta 6.20
वि पिप्रोरहिमायस्य दृळ्हाः पुरो वज्रिञ्छवसा न दर्दः । सुदामन्तद्रेक्णो अप्रमृष्यमृजिश्वने दात्रं दाशुषे दाः ॥
वि पिप्रो॒रहि॑मायस्य दृ॒ळ्हाः पुरो॑ वज्रि॒ञ्छव॑सा॒ न द॑र्दः । सुदा॑म॒न्तद्रेक्णो॑ अप्रमृ॒ष्यमृ॒जिश्व॑ने दा॒त्रं दा॒शुषे॑ दाः ॥
ví piprór áhī-māyasya dṛḷhā́ḥ púro vajríñ chávasa ná dardaḥ | sudā́man tád rékṇo apra-mṛ́ṣyam ṛ́jiśvane dātráṃ dāśúṣe dāḥ ||
Thou, the wielder of the thunderbolt, didst shatter by thy force the strongholds firm-set by Pipru of serpent-craft. O good-giver, thou gavest that unassailable wealth as a gift to Ṛjiśvan, the offerer who gives.
वि । पिप्रोः॑ । अहि॑ऽमायस्य । दृ॒ळ्हाः । पुरः॑ । व॒ज्रि॒न् । शव॑सा । न । द॒र्द॒रिति॑ दर्दः । सुऽदा॑मन् । तत् । रेक्णः॑ । अ॒प्र॒ऽमृ॒ष्यम् । ऋ॒जिश्व॑ने । दा॒त्रम् । दा॒शुषे॑ । दाः॒ ॥वि । पिप्रोः । अहिमायस्य । दृळ्हाः । पुरः । वज्रिन् । शवसा । न । दर्दरिति दर्दः । सुदामन् । तत् । रेक्णः । अप्रमृष्यम् । ऋजिश्वने । दात्रम् । दाशुषे । दाः ॥vi | piproḥ | ahi-māyasya | dṛḷhāḥ | puraḥ | vajrin | śavasā | na | dardaritidardaḥ | su-dāman | tat | rekṇaḥ | apra-mṛṣyam | ṛjiśvane | dātram | dāśuṣe | dāḥ