Sukta 6.20
प्र श्येनो न मदिरमंशुमस्मै शिरो दासस्य नमुचेर्मथायन् । प्रावन्नमीं साप्यं ससन्तं पृणग्राया समिषा सं स्वस्ति ॥
प्र श्ये॒नो न म॑दि॒रमं॒शुम॑स्मै॒ शिरो॑ दा॒सस्य॒ नमु॑चेर्मथा॒यन् । प्राव॒न्नमीं॑ सा॒प्यं स॒सन्तं॑ पृ॒णग्रा॒या समि॒षा सं स्व॒स्ति ॥
prá śyénō ná madirám aṃśúm asmai śíro dāsásya námucer mathāyán | prā́van namī́ṃ sā́pyaṃ sásantaṃ pṛṇág rāyā́ sám iṣā́ sáṃ svastí ||
Like a soaring falcon he brought forth for him the intoxicating Soma-essence, crushing the head of the Dāsa Namuci. He protected Namī, seeking the fit support, and filled him with plenitude of being—wealth, nourishment, and a gathered wholeness of well-being.
प्र । श्ये॒नः । न । म॒दि॒रम् । अं॒शुम् । अ॒स्मै॒ । शिरः॑ । दा॒सस्य॑ । नमु॑चेः । म॒था॒यन् । प्र । आ॒व॒त् । नमी॑म् । सा॒प्यम् । स॒सन्त॑म् । पृ॒णक् । रा॒या । सम् । इ॒षा । सम् । स्व॒स्ति ॥प्र । श्येनः । न । मदिरम् । अंशुम् । अस्मै । शिरः । दासस्य । नमुचेः । मथायन् । प्र । आवत् । नमीम् । साप्यम् । ससन्तम् । पृणक् । राया । सम् । इषा । सम् । स्वस्ति ॥pra | śyenaḥ | na | madiram | aṃśum | asmai | śiraḥ | dāsasya | namuceḥ | mathāyan | pra | āvat | namīm | sāpyam | sasantam | pṛṇak | rāyā | sam | iṣā | sam | svast i