Sukta 6.20
महो द्रुहो अप विश्वायु धायि वज्रस्य यत्पतने पादि शुष्णः । उरु ष सरथं सारथये करिन्द्रः कुत्साय सूर्यस्य सातौ ॥
म॒हो द्रु॒हो अप॑ वि॒श्वायु॑ धायि॒ वज्र॑स्य॒ यत्पत॑ने॒ पादि॒ शुष्ण॑: । उ॒रु ष स॒रथं॒ सार॑थये क॒रिन्द्र॒: कुत्सा॑य॒ सूर्य॑स्य सा॒तौ ॥
mahó druhó ápa viśvā́yu dhāyi vájrasya yát pátane pā́di śúṣṇaḥ | urú ṣá sa-rátham sā́rathaye kár índraḥ kútsāya sū́ryasya sā́tau ||
The great malice was laid low, the all-devouring harm, when Śuṣṇa fell before the descent of the thunderbolt. Wide then became the path and the chariot-course: Indra became the charioteer for Kutsa in the winning of the Sun (the recovered light).
म॒हः । द्रु॒हः । अप॑ । वि॒श्वऽआ॑यु । धा॒यि॒ । वज्र॑स्य । यत् । पत॑ने । पादि॑ । शुष्णः॑ । उ॒रु । सः । स॒ऽरथ॑म् । सार॑थये । कः॒ । इन्द्रः॑ । कुत्सा॑य । सूर्य॑स्य । सा॒तौ ॥महः । द्रुहः । अप । विश्वआयु । धायि । वज्रस्य । यत् । पतने । पादि । शुष्णः । उरु । सः । सरथम् । सारथये । कः । इन्द्रः । कुत्साय । सूर्यस्य । सातौ ॥mahaḥ | druhaḥ | apa | viśva-āyu | dhāyi | vajrasya | yat | patane | pādi | śuṣṇaḥ | uru | saḥ | sa-ratham | sārathaye | kaḥ | indraḥ | kutsāya | sūryasya | sātau