Sukta 6.20
शतैरपद्रन्पणय इन्द्रात्र दशोणये कवयेऽर्कसातौ । वधैः शुष्णस्याशुषस्य मायाः पित्वो नारिरेचीत्किं चन प्र ॥
श॒तैर॑पद्रन्प॒णय॑ इ॒न्द्रात्र॒ दशो॑णये क॒वये॒ऽर्कसा॑तौ । व॒धैः शुष्ण॑स्या॒शुष॑स्य मा॒याः पि॒त्वो नारि॑रेची॒त्किं च॒न प्र ॥
śatáir apadran paṇáya índrā́tra daśóṇaye kaváye ’rka-sā́tau | vadháiḥ śúṣṇasyāśúṣasya māyā́ḥ pitvó nā́rirecīt kíṃ caná prá ||
By hundreds the Panis fled away here, O Indra, before the seer of the tenfold power in the winning of the illumined chant. By thy smiting, the deceits of Shushna—of the force that withholds the flow—could not drain away even a little of the soul’s plenitude.
श॒तैः । अ॒प॒द्र॒न् । प॒णयः॑ । इ॒न्द्र॒ । अत्र॑ । दश॑ऽओणये । क॒वये॑ । अ॒र्कऽसा॑तौ । व॒धैः । शुष्ण॑स्य । अ॒शुष॑स्य । मा॒याः । पि॒त्वः । न । अ॒रि॒रे॒ची॒त् । किम् । च॒न । प्र ॥शतैः । अपद्रन् । पणयः । इन्द्र । अत्र । दशओणये । कवये । अर्कसातौ । वधैः । शुष्णस्य । अशुषस्य । मायाः । पित्वः । न । अरिरेचीत् । किम् । चन । प्र ॥śataiḥ | apadran | paṇayaḥ | indra | atra | daśa-oṇaye | kavaye | arka-sātau | vadhaiḥ | śuṣṇasya | aśuṣasya | māyāḥ | pitvaḥ | na | arirecīt | kim | cana | pra