Sukta 6.20
दिवो न तुभ्यमन्विन्द्र सत्रासुर्यं देवेभिर्धायि विश्वम् । अहिं यद्वृत्रमपो वव्रिवांसं हन्नृजीषिन्विष्णुना सचानः ॥
दि॒वो न तुभ्य॒मन्वि॑न्द्र स॒त्रासु॒र्यं॑ दे॒वेभि॑र्धायि॒ विश्व॑म् । अहिं॒ यद्वृ॒त्रम॒पो व॑व्रि॒वांसं॒ हन्नृ॑जीषि॒न्विष्णु॑ना सचा॒नः ॥
divó ná túbhyam ánv indra satrā́ asúryaṃ devébhir dhāyi víśvam | áhíṃ yád vṛtrám apó vavrivā́ṃsaṃ hán ṛjīṣin víṣṇunā sacānáḥ ||
As from heaven, to you, O Indra, the divine world-order was set in place among the gods; when you slew the serpent Vṛtra who had covered the waters, O wielder of the tawny steeds, acting in companionship with Vishnu.
दि॒वः । न । तुभ्य॑म् । अनु॑ । इ॒न्द्र॒ । स॒त्रा । अ॒सु॒र्य॑म् । दे॒वेभिः॑ । धा॒यि॒ । विश्व॑म् । अहि॑म् । यत् । वृ॒त्रम् । अ॒पः । व॒व्रि॒ऽवांस॑म् । हन् । ऋ॒जी॒षि॒न् । विष्णु॑ना । स॒चा॒नः ॥दिवः । न । तुभ्यम् । अनु । इन्द्र । सत्रा । असुर्यम् । देवेभिः । धायि । विश्वम् । अहिम् । यत् । वृत्रम् । अपः । वव्रिवांसम् । हन् । ऋजीषिन् । विष्णुना । सचानः ॥divaḥ | na | tubhyam | anu | indra | satrā | asuryam | devebhiḥ | dhāyi | viśvam | ahi m | yat | vṛtram | apaḥ | vavri-vāṃsam | han | ṛjīṣin | viṣṇunā | sacānaḥ